Nav Durga Stotram
नवदुर्गास्तोत्रम्
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
देवी ब्रह्मचारिणी ।
दधानाकरपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चन्द्रघण्टा ।
पिण्डजप्रवरारूढा चण्डकोपास्त्रकै॑र्युताः ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
देवी कूष्माण्डा ।
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधानाहस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
देवी स्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥
देवी कात्यायनी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यात् देवी दानवघातिनी ॥
देवी कालरात्रिः ।
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्री तैलाभ्यक्तशरीरिणी ॥
वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥
देवी महागौरी ।
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥
देवी सिद्धिदात्री ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥
इति नवदुर्गास्तोत्रं सम्पूर्णम् ।
No comments:
Post a Comment